Wednesday, 8 February 2012

Rig Veda Book 1 Hymn 4

सुरूपक्र्त्नुमूतये सुदुघामिव गोदुहे |
जुहूमसि दयवि-दयवि ||
उप नः सवना गहि सोमस्य सोमपाः पिब |
गोदा इद रेवतोमदः ||
अथा ते अन्तमानां विद्याम सुमतीनाम |
मा नो अति खय आगहि ||
परेहि विग्रमस्त्र्तमिन्द्रं पर्छा विपश्चितम |
यस्ते सखिभ्य आ वरम ||
उत बरुवन्तु नो निदो निरन्यतश्चिदारत |
दधाना इन्द्र इद दुवः ||
उत नः सुभगानरिर्वोचेयुर्दस्म कर्ष्टयः |
सयामेदिन्द्रस्य शर्मणि ||
एमाशुमाशवे भर यज्ञश्रियं नर्मादनम |
पतयन मन्दयत्सखम ||
अस्य पीत्वा शतक्रतो घनो वर्त्राणामभवः |
परावो वाजेषु वाजिनम ||
तं तवा वाजेषु वाजिनं वाजयामः शतक्रतो |
धनानामिन्द्र सातये ||
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा |
तस्मा इन्द्राय गायत ||

No comments:

Post a Comment