Thursday, 16 February 2012

Rig Veda Book 1 Hymn 137

सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे | आ राजाना दिविस्प्र्शास्मत्रा गन्तमुप नः |
इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ||
इम आ यातम इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः |
उत वाम उषसो बुधि साकं सूर्यस्य रश्मिभिः |
सुतो मित्राय वरुणाय पीतये चारुर रताय पीतये ||
तां वां धेनुं न वासरीम अंशुं दुहन्त्य अद्रिभिः सोमं दुहन्त्य अद्रिभिः |
अस्मत्रा गन्तम उप नो ऽरवाञ्चा सोमपीतये |
अयं वाम मित्रावरुणा नर्भिः सुतः सोम आ पीतये सुतः ||

http://www.vogaz.com

No comments:

Post a Comment