Friday 2 March 2012

Rig Veda Book 1 Hymn 170

न नूनमस्ति नो शवः कस्तद वेद यदद्भुतम |
अन्यस्यचित्तमभि संचरेण्यमुताधीतं वि नश्यति ||
किं न इन्द्र जिघांससि भरातरो मरुतस्तव |
तेभिः कल्पस्व साधुया मा नः समरणे वधीः ||
किं नो भरातरगस्त्य सखा सन्नति मन्यसे |
विद्मा हि तेयथा मनो.अस्मभ्यमिन न दित्ससि ||
अरं कर्ण्वन्तु वेदिं समग्निमिन्धतां पुरः |
तत्राम्र्तस्य चेतनं यज्ञं ते तनवावहै ||
तवमीशिषे वसुपते वसूनां तवं मित्राणां मित्रपते धेष्ठः |
इन्द्र तवं मरुद्भिः सं वदस्वाध पराशान रतुथा हवींषि ||
http://www.vogaz.com

No comments:

Post a Comment